|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.110. अध्यायः 110
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दुर्गातितरणोपायकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-110-0x(5636)(69082)
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक्।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह॥ 12-110-1(69083)
भीष्म उवाच। 12-110-2x(5637)
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते॥ 12-110-2(69084)
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते॥ 12-110-3(69085)
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते॥ 12-110-4(69086)
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते॥ 12-110-5(69087)
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः।
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते॥ 12-110-6(69088)
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते॥ 12-110-7(69089)
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः।
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते॥ 12-110-8(69090)
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते॥ 12-110-9(69091)
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम्।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते॥ 12-110-10(69092)
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते॥ 12-110-11(69093)
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः।
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते। 12-110-12(69094)
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते।
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते॥ 12-110-13(69095)
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः।
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते॥ 12-110-14(69096)
ये च संशान्तरजसः संशान्ततमसश्च ये।
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते॥ 12-110-15(69097)
येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित्।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥ 12-110-16(69098)
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः।
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते॥ 12-110-17(69099)
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते॥ 12-110-18(69100)
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते॥ 12-110-19(69101)
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते॥ 12-110-20(69102)
ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च।
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते॥ 12-110-21(69103)
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते॥ 12-110-22(69104)
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्।
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते॥ 12-110-23(69105)
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते॥ 12-110-24(69106)
य एष पझरक्ताक्षः पीतवासा महाभुजः।
सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत॥ 12-110-25(69107)
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्।
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः॥ 12-110-26(69108)
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः।
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः॥ 12-110-27(69109)
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्।
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा॥ 12-110-28(69110)
` अस्मिन्नर्पितकर्माणः सर्वभावेन भारत।
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते। 12-110-29(69111)
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम्।
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते॥ 12-110-30(69112)
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम्।
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते॥ 12-110-31(69113)
यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः।
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम्।
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते॥' 12-110-32(69114)
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च।
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते॥ 12-110-33(69115)
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ।
तरते येन दुर्गाणि परत्रेह च मानवः॥ ॥ 12-110-34(69116)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशाधिकशततमोऽध्यायः॥ 110॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-110-1 भूतेषु ---। दुर्गाणि दुस्तराणि॥ 12-110-3 विषयान्विषयार्थानि --॥ 12-110-4 उच्यमानाः निन्द्यमानाः॥ 12-110-8 रजसान्विताः सन्तोऽर्थान्न नयन्ति न हरस्ति॥ 12-110-23 यात्रार्थ जीवनार्थम्॥ 12-110-34 कृत्यसमुद्देशः कर्तव्यलेशः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|